[INDOLOGY] Mayavada

Veeranarayanacharya Pandurangi dharmayuddha2017 at gmail.com
Fri May 15 12:08:23 UTC 2020


it is what shankaracharya has to say about Maya in BSB (various quotations)

 अत्र ब्रूमः — स्यात्परमेश्वरस्यापीच्छावशान्मायामयं रूपं साधकानुग्रहार्थम्
, ‘माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद ।

अविद्यात्मिका हि सा बीजशक्तिरव्यक्तशब्दनिर्देश्या परमेश्वराश्रया मायामयी
महासुषुप्तिः, यस्यां स्वरूपप्रतिबोधरहिताः शेरते संसारिणो जीवाः ।
तदेतदव्यक्तं क्वचिदाकाशशब्दनिर्दिष्टम् — ‘एतस्मिन्नु खल्वक्षरे गार्ग्याकाश
ओतश्च प्रोतश्च’ (बृ. उ. ३ । ८ । ११) इति श्रुतेः ; क्वचिदक्षरशब्दोदितम् —
‘अक्षरात्परतः परः’ (मु. उ. २ । १ । २) इति श्रुतेः ; क्वचिन्मायेति सूचितम् —
‘मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्’ (श्वे. उ. ४ । १०) इति
मन्त्रवर्णात् ; अव्यक्ता हि सा माया, तत्त्वान्यत्वनिरूपणस्याशक्यत्वात् ।

अयमपरो दृष्टान्तः — यथा स्वयं प्रसारितया मायया मायावी त्रिष्वपि कालेषु न
संस्पृश्यते , अवस्तुत्वात् , एवं परमात्मापि *संसारमायया *न संस्पृश्यत इति ;
यथा च स्वप्नदृगेकः स्वप्नदर्शनमायया न संस्पृश्यते,
प्रबोधसम्प्रसादयोरनन्वागतत्वात् ,
एवमवस्थात्रयसाक्ष्येकोऽव्यभिचार्यवस्थात्रयेण व्यभिचारिणा न संस्पृश्यते ।
*मायामात्रं ह्येतत् , यत्परमात्मनोऽवस्थात्रयात्मनावभासनम्* , रज्ज्वा इव
सर्पादिभावेनेति । अत्रोक्तं वेदान्तार्थसम्प्रदायविद्भिराचार्यैः — ‘
अनादिमायया सुप्तो यदा जीवः प्रबुध्यते । अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदा’
(मा. का. १ । १६)
<https://advaitasharada.sringeri.net/display/bhashya/Mandukya?page=1&id=MK_C01_K16&hl=%20%E0%A4%85%E0%A4%A8%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%AE%E0%A4%BE%E0%A4%AF%E0%A4%AF%E0%A4%BE%20%E0%A4%B8%E0%A5%81%E0%A4%AA%E0%A5%8D%E0%A4%A4%E0%A5%8B%20%E0%A4%AF%E0%A4%A6%E0%A4%BE%20%E0%A4%9C%E0%A5%80%E0%A4%B5%E0%A4%83%20%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%AC%E0%A5%81%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%A4%E0%A5%87%C2%A0%E0%A5%A4%20%E0%A4%85%E0%A4%9C%E0%A4%AE%E0%A4%A8%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%AA%E0%A5%8D%E0%A4%A8%E0%A4%AE%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A5%88%E0%A4%A4%E0%A4%82%20%E0%A4%AC%E0%A5%81%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%A4%E0%A5%87%20%E0%A4%A4%E0%A4%A6%E0%A4%BE>
 इति ।

सर्वज्ञस्येश्वरस्यात्मभूते इवाविद्याकल्पिते नामरूपे तत्त्वान्यत्वाभ्या
मनिर्वचनीये संसारप्रपञ्चबीजभूते *सर्वज्ञस्येश्वरस्य मायाशक्तिः *प्रकृतिरिति
च श्रुतिस्मृत्योरभिलप्येते

अविद्याप्रत्युपस्थापित*नामरूपमायावेशवशेना*सकृत्प्रत्युक्तत्वात् ।

परमात्मनस्तु *स्वरूपव्यपाश्रयमौदासीन्यम् , मायाव्यपाश्रयं* च प्रवर्तकत्वम्

ईश्वरस्य तु सर्वज्ञत्वा*त्सर्वशक्तित्वान्महामायत्वाच्च* प्रवृत्त्यप्रवृत्ती
न विरुध्येते ॥

न च वियदादिसर्गस्याप्यात्यन्तिकं सत्यत्वमस्ति ; प्रतिपादितं हि ‘
तदनन्यत्वमारम्भणशब्दादिभ्यः’ (ब्र. सू. २ । १ । १४)
<https://advaitasharada.sringeri.net/display/bhashya/BS?page=2&id=BS_C02_S01_V14&hl=%E0%A4%A4%E0%A4%A6%E0%A4%A8%E0%A4%A8%E0%A5%8D%E0%A4%AF%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%AE%E0%A4%BE%E0%A4%B0%E0%A4%AE%E0%A5%8D%E0%A4%AD%E0%A4%A3%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%AD%E0%A5%8D%E0%A4%AF%E0%A4%83>
 इत्यत्र समस्तस्य प्रपञ्चस्य मायामात्रत्वम् ।

Gitabhashya
तम् ऊर्ध्वमूलं संसारं मायामयं वृक्षम्

Bhamati various quotations
आत्मनि चैवं विचित्राश्च हि । अनेन स्फुटितो मायावादः ।
परमार्थतस्तु भाविकं परिणामं वा कार्यकारणभावं वेच्छतामेष दुर्वारो दोषो न
पुनरस्माकं मायावादिनामित्याह
मायावादिनश्च पुण्यपापयोश्च मायामात्रविनिर्मितत्वेन मायानिवृत्तौ न
पुण्यापुण्ये न तत्संस्कारो वस्तुसन्तीति कस्यानुवृत्तिः

It is not inappropriate to call advaitins as Mayavadins, as themselves call
as Mayavadins. it is clear from Bhamati etc.


https://advaitasharada.sringeri.net/search/advanced?stringData=%E0%A4%AE%E0%A4%BE%E0%A4%AF%E0%A4%BE&check_bhashya%5B%5D=Isha&check_bhashya%5B%5D=Kena_pada&check_bhashya%5B%5D=Kena_vakya&check_bhashya%5B%5D=Kathaka&check_bhashya%5B%5D=Prashna&check_bhashya%5B%5D=Mundaka&check_bhashya%5B%5D=Mandukya&check_bhashya%5B%5D=Taitiriya&check_bhashya%5B%5D=Aitareya&check_bhashya%5B%5D=Chandogya&check_bhashya%5B%5D=Brha&check_bhashya%5B%5D=Gita&check_bhashya%5B%5D=BS&submit=%E0%A4%85%E0%A4%A8%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%B7%E0%A4%A3%E0%A4%AE%E0%A5%8D




On Thu, Apr 9, 2020 at 11:35 AM Michael Williams via INDOLOGY <
indology at list.indology.info> wrote:

> I would just add that the Mādhvas usually use the term māyā-vādin to
> refer to Advaitin philosophers. It is clear that it has a pejorative
> force, particularly in texts like the Madhvavijaya (the most famous
> biography of Madhva). The Madhvavijaya makes a lot of the fact that the
> compound can be interpreted as a straightforward statement of the
> Advaitins' position (they are "philosophers who hold that [the world] is
> illusion"), but also with a pejorative sense as "a proponent of the
> fraudulent/false philosophy”. The Mādhvas widely refer to themselves by
> contrast as tattva-vādins ("proponents of the doctrine that [the world]
> is real" / "proponents of the truth").
>


>
>


-------------- next part --------------
An HTML attachment was scrubbed...
URL: <https://list.indology.info/pipermail/indology/attachments/20200515/375e1db7/attachment.htm>


More information about the INDOLOGY mailing list