it is what shankaracharya has to say about Maya in BSB (various quotations)

 अत्र ब्रूमः — स्यात्परमेश्वरस्यापीच्छावशान्मायामयं रूपं साधकानुग्रहार्थम् , ‘माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद ।   

अविद्यात्मिका हि सा बीजशक्तिरव्यक्तशब्दनिर्देश्या परमेश्वराश्रया मायामयी महासुषुप्तिः, यस्यां स्वरूपप्रतिबोधरहिताः शेरते संसारिणो जीवाः । तदेतदव्यक्तं क्वचिदाकाशशब्दनिर्दिष्टम् — ‘एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च’ (बृ. उ. ३ । ८ । ११) इति श्रुतेः ; क्वचिदक्षरशब्दोदितम् — ‘अक्षरात्परतः परः’ (मु. उ. २ । १ । २) इति श्रुतेः ; क्वचिन्मायेति सूचितम् — ‘मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्’ (श्वे. उ. ४ । १०) इति मन्त्रवर्णात् ; अव्यक्ता हि सा माया, तत्त्वान्यत्वनिरूपणस्याशक्यत्वात् ।  

अयमपरो दृष्टान्तः — यथा स्वयं प्रसारितया मायया मायावी त्रिष्वपि कालेषु न संस्पृश्यते , अवस्तुत्वात् , एवं परमात्मापि संसारमायया न संस्पृश्यत इति ; यथा च स्वप्नदृगेकः स्वप्नदर्शनमायया न संस्पृश्यते, प्रबोधसम्प्रसादयोरनन्वागतत्वात् , एवमवस्थात्रयसाक्ष्येकोऽव्यभिचार्यवस्थात्रयेण व्यभिचारिणा न संस्पृश्यते । मायामात्रं ह्येतत् , यत्परमात्मनोऽवस्थात्रयात्मनावभासनम् , रज्ज्वा इव सर्पादिभावेनेति । अत्रोक्तं वेदान्तार्थसम्प्रदायविद्भिराचार्यैः — ‘ अनादिमायया सुप्तो यदा जीवः प्रबुध्यते । अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदा’ (मा. का. १ । १६) इति ।  

सर्वज्ञस्येश्वरस्यात्मभूते इवाविद्याकल्पिते नामरूपे तत्त्वान्यत्वाभ्यामनिर्वचनीये संसारप्रपञ्चबीजभूते सर्वज्ञस्येश्वरस्य मायाशक्तिः प्रकृतिरिति  श्रुतिस्मृत्योरभिलप्येते  

अविद्याप्रत्युपस्थापितनामरूपमायावेशवशेनासकृत्प्रत्युक्तत्वात् ।  

परमात्मनस्तु स्वरूपव्यपाश्रयमौदासीन्यम् , मायाव्यपाश्रयं  प्रवर्तकत्वम्  

ईश्वरस्य तु सर्वज्ञत्वात्सर्वशक्तित्वान्महामायत्वाच्च प्रवृत्त्यप्रवृत्ती  विरुध्येते ॥   

  वियदादिसर्गस्याप्यात्यन्तिकं सत्यत्वमस्ति ; प्रतिपादितं हि तदनन्यत्वमारम्भणशब्दादिभ्यः’ (ब्र. सू. २ । १ । १४) इत्यत्र समस्तस्य प्रपञ्चस्य मायामात्रत्वम् । 

Gitabhashya
तम् ऊर्ध्वमूलं संसारं मायामयं वृक्षम् 

Bhamati various quotations 
आत्मनि चैवं विचित्राश्च हि । अनेन स्फुटितो मायावादः । 
परमार्थतस्तु भाविकं परिणामं वा कार्यकारणभावं वेच्छतामेष दुर्वारो दोषो न पुनरस्माकं मायावादिनामित्याह  
मायावादिनश्च पुण्यपापयोश्च मायामात्रविनिर्मितत्वेन मायानिवृत्तौ न पुण्यापुण्ये न तत्संस्कारो वस्तुसन्तीति कस्यानुवृत्तिः 

It is not inappropriate to call advaitins as Mayavadins, as themselves call as Mayavadins. it is clear from Bhamati etc.





On Thu, Apr 9, 2020 at 11:35 AM Michael Williams via INDOLOGY <indology@list.indology.info> wrote:
I would just add that the Mādhvas usually use the term māyā-vādin to
refer to Advaitin philosophers. It is clear that it has a pejorative
force, particularly in texts like the Madhvavijaya (the most famous
biography of Madhva). The Madhvavijaya makes a lot of the fact that the
compound can be interpreted as a straightforward statement of the
Advaitins' position (they are "philosophers who hold that [the world] is
illusion"), but also with a pejorative sense as "a proponent of the
fraudulent/false philosophy”. The Mādhvas widely refer to themselves by
contrast as tattva-vādins ("proponents of the doctrine that [the world]
is real" / "proponents of the truth").