[INDOLOGY] chakras and vedic meditation

Nagaraj Paturi nagarajpaturi at gmail.com
Wed Apr 6 06:44:21 UTC 2016


पद्मकोशप्रतीकाशं *हृदयं* चाप्यधोमुखम्

 from

नारायणसूक्तम्

              तैत्तिरीयारण्यकम् प्रपाठकः १० अनुवाकः १३

सहस्रशीर्षं देवं विश्वाक्षं विश्वशंभुवम् ।विश्वं नारायणं देवमक्षरं परमं
पदं। विश्वतः परमान्नित्यं विश्वं नारायणँ हरिम्। विश्वमेवेदं
पुरुषस्तद्विश्वमुपजीवति ।पतिं विश्वस्यात्मेश्वरँ शाश्वतँ शिवमच्युतम् ।
नारायणं महाज्ञेयं विश्वात्मानं परायणं । नारायण परोज्योतिरात्मा नारायणः परः
।  नारायण परंब्रह्म तत्त्वं नारायण: परः। नारायणपरो ध्याता ध्यानं नारायणः
परः। यच्च किञ्चिज्जगत्सर्वं

दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायाणः स्थित: ।
अनन्तमव्ययं कविँ समुद्रेऽन्तं विश्वशंभुवम्। पद्मकोशप्रतीकाशं *हृदयं*
चाप्यधोमुखम् ।  अधो निष्ट्या वितस्त्यान्ते नाभ्यामुपरि तिष्ठति।
ज्वालमालाकुलं भाती विश्वस्यायतनं महत्। सन्ततँ शिलाभिस्तु
लम्बत्याकोशसन्निभम् । तस्यान्ते सुषिरँ सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम्
। तस्य मध्ये महानग्निर्विश्वार्चिर्विश्वतोमुखः।
सोऽग्रभुग्विभजन्तिष्ठन्नाहारमजरः कविः।

तिर्यगूर्ध्वमधश्शायी रश्मयस्तस्य सन्तता। सन्तापयति स्वं देहमापादतलमस्तकः।

तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थितः। नीलतोयद मध्यस्था विद्युल्लेखेव
भास्वरा । नीवारशूकवत्तन्वी पीता भास्यत्यणूपमा । तस्याः शिखायाः मध्ये
परमात्मा व्यवस्थितः। स ब्रह्म स शिवः स हरिः सेन्द्रः सोऽक्षरः परमः स्वराट् ॥

ऋतँ सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलं। ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय
ते नमो नमो नमः॥

नारायणाय विद्महे वासुदेवाय धीमहि। तन्नो विष्णुः प्रचोदयात् ॥

                         ऊँ शान्तिः शान्तिः शान्तिः

Is considered to be related to the anaahata meditation mentioned in the
website.




-- 
Nagaraj Paturi

Hyderabad, Telangana, INDIA.

Former Senior Professor of Cultural Studies

FLAME School of Communication and FLAME School of  Liberal Education,

(Pune, Maharashtra, INDIA )


-------------- next part --------------
An HTML attachment was scrubbed...
URL: <https://list.indology.info/pipermail/indology/attachments/20160406/a90f3b36/attachment.htm>


More information about the INDOLOGY mailing list