क
एष
भगवद्गीतोपदेशक
इति
श्रुतः।
श्यामवर्णः
कृष्णनामा
गोकुले
वर्द्धितः
सुखम्॥
वेदेष्वयं
प्राक्तनेषु
महितो
नहि
कुत्रचित्।
एकाष्टका
नाम
तिथिः
किन्तु
तत्रास्ति
वर्णिता॥
सांप्रतं
श्रूयते
लोके
कृष्णजन्माष्टमीति
सा।
तां
तु
गोवत्ससम्बद्धां
मेनिरे
वैदिका
जनाः॥
वत्सानां
नवजातानां
हिताय
च
सुखाय
च।
एकाष्टम्यां
यज्ञविधिं
चक्रुस्ते
प्रतिवत्सरं॥
तस्मात्
कृष्णमहं
मन्ये
गोवत्सं
देवतात्मकम्।
नामधेयं
तस्य
पितुरासीद्
आनकदुन्दुभिः॥
निदाघे
मनुजा
भूमौ
दुन्दुभिं
वादयन्ति
चेत्।
उच्चैर्
गर्जन्
मेघरूपो
वर्षत्यानकदुन्दुभिः॥
इत्येवमुच्यते
तस्माद्
कृष्णो
वै
मेघपुत्रकः।
कृष्णाष्टमी
तु
वर्षर्तोस्तदासीत्
प्रथमाष्टमी॥
पितुः
कृष्णस्य
तन्नाम
नामलिङ्गानुशासने।
सम्यग्
उल्लिखितं
किन्तु
व्याख्यातं
न
तु
केनचित्॥
एकाष्टकामधिकृत्य
कृतिरस्ति
मया
कृता।
बुधा
अध्येतुमर्हन्ति
नूतनां
तां
कृतिं
मम॥
https://hasp.ub.uni-heidelberg.de/journals/ejvs/article/view/27844