हृदयहारिणः सारस्वता बान्धवाः,
चिरेण वृन्दाविपिने वसन्ती राधा प्रियं स्वं मधुरं प्रतीक्षते।
प्रीत्यागते वेणुरवेण कृष्णे ह्यारात्रिकं सन्तनुते प्रदीपैः।।
दीपावली सा मधुबिन्दुवर्षा मनोरमाद्यापि विभात्यमायाम्।
राधामुकुन्दद्वयदिव्यमोदं विज्ञापयन्ती स्फुरतीव चित्ते।।
इति ज्ञानलवदुर्विदग्धस्य गिरीशस्य।
Regards
Girish K. Jha
Retd. University Professor
Dept of Sanskrit
Patna University
Current Residence : Kolkata