नारायणसूक्तम्
तैत्तिरीयारण्यकम् प्रपाठकः १० अनुवाकः १३
सहस्रशीर्षं देवं विश्वाक्षं विश्वशंभुवम् ।विश्वं नारायणं देवमक्षरं परमं पदं। विश्वतः परमान्नित्यं विश्वं नारायणँ हरिम्। विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति ।पतिं विश्वस्यात्मेश्वरँ शाश्वतँ शिवमच्युतम् । नारायणं महाज्ञेयं विश्वात्मानं परायणं । नारायण परोज्योतिरात्मा नारायणः परः । नारायण परंब्रह्म तत्त्वं नारायण: परः। नारायणपरो ध्याता ध्यानं नारायणः परः। यच्च किञ्चिज्जगत्सर्वं
दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायाणः स्थित: । अनन्तमव्ययं कविँ समुद्रेऽन्तं विश्वशंभुवम्। पद्मकोशप्रतीकाशं हृदयं चाप्यधोमुखम् । अधो निष्ट्या वितस्त्यान्ते नाभ्यामुपरि तिष्ठति। ज्वालमालाकुलं भाती विश्वस्यायतनं महत्। सन्ततँ शिलाभिस्तु लम्बत्याकोशसन्निभम् । तस्यान्ते सुषिरँ सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम् । तस्य मध्ये महानग्निर्विश्वार्चिर्विश्वतोमुखः। सोऽग्रभुग्विभजन्तिष्ठन्नाहारमजरः कविः।
तिर्यगूर्ध्वमधश्शायी रश्मयस्तस्य सन्तता। सन्तापयति स्वं देहमापादतलमस्तकः।
तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थितः। नीलतोयद मध्यस्था विद्युल्लेखेव भास्वरा । नीवारशूकवत्तन्वी पीता भास्यत्यणूपमा । तस्याः शिखायाः मध्ये परमात्मा व्यवस्थितः। स ब्रह्म स शिवः स हरिः सेन्द्रः सोऽक्षरः परमः स्वराट् ॥
ऋतँ सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलं। ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय ते नमो नमो नमः॥
नारायणाय विद्महे वासुदेवाय धीमहि। तन्नो विष्णुः प्रचोदयात् ॥
ऊँ शान्तिः शान्तिः शान्तिः