Ann Arbor, 1984:
प्राग्जीवनस्य पथि यातुमिहोद्यतेन
दृष्टा मया दिशि दिशि क्रमणाय मार्गा: ।
यातोऽस्मि केनचिदहं सुचिरं सदूरम्
अत्रागत: किमधुना पथचिन्तया मे ॥१॥
सर्वस्य लब्धजनुषो भुवि सैव रीति:
आगत्य याति न चिरस्थितिकोऽत्र कोऽपि ।
दु:खं तथापि मनुते न मनो मदीयम्
अर्धोऽपि जातु चषकोऽयमसौ न रिक्त: ॥२॥
किं दु:खं किं सुखं वा किमिह परिणतं कर्म वाकर्म वा मे,
देवैरेवं व्यधायि प्रविहितमथवा दानवैरायुरेतत् ।
संसारोऽयं विचित्रो जनयति वपुषि स्वेदमस्मद्विधानाम्,
अज्ञा: प्राज्ञाश्च लोकेऽविचलितमनस: शेरते निर्विशङ्कम् ॥३॥
यत्किञ्चिज्जन्तुजातं त्रिभुवनजठरे यत्नवत् सौख्यहेतो:
दु:खाद्दु:खं प्रयाति प्रसभमनुदिनं कर्मणाकृष्यमाणम् ।
किं कार्यं किं न कार्यं किमुचितमथवा किं च मे नोचितं स्याद्
इत्याशङ्कापिशाची प्रथयति हृदये मादृशां मोहजालम् ॥४॥
Madhav Deshpande
Ann Arbor, Michigan, USA