रामं लक्ष्मणसंहितं तदनुगां क्षुद्रां चमूं वानरीम्
निर्जित्यैव रणे क्षणे सपदि तं भङ्क्ष्यामि सेतुं मुदा ।
यायुस्ते क्व पराङ्मुखा अगतिका मङ्क्ष्यन्ति ते सागरे
गन्तारो मिलिता: सहैव सहसा तस्यान्तकस्यान्तिकम् ।।४८।।
Madhav Deshpande
Ann Arbor, Michigan, USA
Here are the concluding verses of my Ravana-Sita Conversation poem. I have become so wound up with this poem, waking up in the middle of the night to write down what I am thinking. It is time to conclude the poem. Thanks for your encouraging responses.RAVANA RESPONDS TO SITA:सीते ते वचनेषु यज्जनकजे वाक्पाटवं कापटं
तन्मे दु:खकरं सदा भवति, मच्चित्तं तु लग्नं त्वयि ।
तीक्ष्णं ते वचनं विषाक्तशरवन्मर्माणि मे कृन्तति
नाहं त्वामनयं विदेहतनये दु:खाय ते, मा गम: ।।४४।।
यावन्मे हृदि चेतना मम वपुष्यास्ते बलं प्रोज्ज्वलं
यावन्मे भुजविंशतौ प्रवहति प्राणप्रदं लोहितम् ।
यावन्मे सुतबन्धुराक्षसगणैर्नाहं विहीनो युधि
तावद्रामशतं क्षमं न हि भवेज्जेतुं कुबेरानुजम् ।।४५।।
यातश्चेत्स बिभीषणो रघुपतिं मायात्वसौ मां पुन:
कुभ्राता स विहाय मामरिकुलं गत्वामिलन्निस्त्रप: ।
यावद्वीरवरो मदीयतनुजस्तिष्ठत्यसाविन्द्रजि
द् भ्राता शत्रुचमूविदारणपटु: कुम्भश्च किं मे भयम् ।।४६।।
रामं तं जटिलं विदेहतनये कुर्यां शरैर्निर्जटम्
सौमित्रिं च रणे मदीयचरणे तं पातयेयं क्षणात् ।
कस्माद्बिभ्यति राक्षसा वनचरात् क्षुद्रात् पशोर्वानरात्
मा ते चेतसि संशयो भवतु, मे युद्धे जयो निश्चित: ।। ४७।।
रामं लक्ष्मणसंहितं तदनुगां क्षुद्रां चमूं वानरीम्
निर्जित्यैव रणे सपदि तं भङ्क्ष्यामि सेतुं मुदा ।
यायुस्ते क्व पराङ्मुखा अगतिका मङ्क्ष्यन्ति ते सागरे
गन्तारो मिलिता: सहैव सहसा तस्यान्तकस्यान्तिकम् ।।४८।।
विश्वासं कुरु मद्वचस्सु भविता रम्यो जयस्योत्सव:
लङ्काया जयगीतकैर्जगदिदं भूयात्पुनर्नन्दितम् ।
यायां तत्र पुराङ्गणं जितरिपु: साकं त्वया जानकि
पश्यन्ती पुरमार्गतोरणशतान्यानन्दिनी त्वं भवे: ।।४९।।
CONCLUSION:
इत्युक्त्वा स जगाम राक्षसपतिर्गर्वोन्नत: स्वं पुरम्
युद्धं घोरमसौ चकार ससुत: सभ्रातृक: सानुग: ।
रामस्तं समरे निहत्य कृतवान् मुक्तां प्रियां जानकीम्
पायान्न: स रघोरयं कुलमणि: कुर्यात् सदा मङ्गलम् ।।५०।।
Madhav Deshpande
Ann Arbor, Michigan, USA