रामो मे रणकर्कशस्तव रणे जिह्वा दश च्छेत्स्यति
भिन्ना ते दशधा मतिर्दशसु ते शीर्षेषु यायाच्छमम् ।
लङ्कां स्वर्णमयीं तवैव नचिराज्ज्वालासु दग्धामिमां
दृष्ट्वा विंशतिलोचनैस्तु शरणं रामं स्वयं यास्यसि ।।३१।।
(Jan 13, 2017)
यांस्त्वं रावण मन्यसे वनचरान् क्षुद्रान् कपीनां गणान्
वीरास्ते रणदुर्धरास्तव पुरीं धक्ष्यन्त्यशेषामिमाम् ।
कश्चिद्वानरयूथप: सदसि ते निर्भर्त्सनां दर्शयन्
उच्चै: सत्स्यति राक्षसानुपदिशन् “रामेण कुर्या: शमम्” ।।३२।।
(Jan 13, 2017)
त्वं पौलस्त्यकुलोद्भवो द्विजकुले जातोऽपि वृत्तेऽधमो
यातो राक्षसतां, तत: सुमनसा रामेण वैरं तव ।
ते ते वानरयूथका वनचरा: शुद्धां मतिं बिभ्रतो
रामे श्रद्दधतो गता: सुजनतां, त्वत्तो वरा वानरा: ।।३३।।
(Jan 13, 2017)
रे रे रावण वानरैर्वनचरैर्बद्ध: स सेतुर्महान्
खण्डैरम्भसि सन्तरद्भिरधुना ये रामनामाङ्किता: ।
कच्चिद् राक्षस ते भवेन्मनसि चेद् रामस्य नामाङ्कितम्
भूयात् ते सुगतिस्तरेस्त्वमपि रे संसारदु:खार्णवम् ।।३४।।
(Jan 13, 2017)
रे रे रावण मत्तवारण इवायासि त्वमेकाकिनीम्
मां शोकाकुलतां नयन्ननुदिनं दुर्भाषणं भाषसे ।
क्वास्तेऽशोकवनं तवाद्य परितो मां शोकवारान्निधि:
सर्वत्र प्रसरत्यजस्रमधिकं, कीदृक् सुखं रे तव ।।३५।।
(Jan 13, 2017)
नाम्नाशोकवनं त्वदीयमखिलं शोकाकुलं मे जगत्
दृष्ट्वा त्वामसुरेश्वर प्रतिदिनं रोदिम्यहं निर्भरम् ।
तत्रासौ वनिता तवापि सुचिरं धर्म्या तवादर्शनात्
भूयो मुञ्चति सा विलोचनजलं दु:खेन मन्दोदरी ।।३६।।
(Jan 13, 2017)
जिह्वास्ते दश सङ्गिरन्ति वचनं निर्भिन्नबन्धं सदा
सम्भूतं दशसु प्रसर्पति विषं दिक्ष्वन्धकारं किरत् ।
राहुस्त्वेकमुख: करोति शशिन: किञ्चित् क्वचिद् दूषणम्
त्वं तावद्दशभिर्मुखै: खल करोष्याकाशमप्याकुलम् ।।३७।।
(Jan 13, 2017)
रे रे रावण मा कृथा रघुवरे वैरं सुवीरे परे
मां चेन्मुञ्चसि राघवस्तव भवेन्मित्रं स मित्रोद्भव: ।
शान्तिं त्वं दशभिर्मुखैर्वदसि चेद् दद्याच्छिवं ते ध्रुवम्
श्रीरामो निजभक्तवत्सलतया लङ्कापते तं भज ।।३८।।
(Jan 13, 2017)
मा पापेषु रतिं कृथा: सुररिपो निष्कारणं मा मृथा:
मा पुत्रै: सह बन्धुभि: सह गणै: सर्वस्वनाशं गम: ।
मा भूत् धर्मपरा त्वदीयवनिता निर्भर्तृका दु:खिता
कल्याणे यदि कामना भवति ते, लङ्कापते मुञ्च माम् ।।३९।।
(Jan 13, 2017)
औद्धत्यं तव विश्रुतं जगति रे पौलस्त्य लङ्कापते
दुष्कर्माणि कृतानि तानि कथये तुभ्यं स्मृतिं धारये: ।
भ्रातुस्तामलकापुरीं निजबलेनाक्रम्य जित्वा हठात्
त्वं कौबेरविमानमात्मनगरीं लङ्कापुरीं नीतवान् ।।४०।।
(Jan 13, 2017)
लुण्ठित्वा शुभपुष्पकं त्वमगम: शैलं हिमाद्रिं तत:
कैलासे गमनात्तु वारयदसौ नन्दी गणस्याग्रणी: ।
धृष्टस्त्वं सहसाकरोर्बलवदायासं समुत्पाटयन्
कैलासं, शिवपादभारवशतो नीतस्तलं त्वं गिरे: ।।४१।।
(Jan 14, 2017)
यातं वर्षसहस्रकं गिरितले बद्धस्य ते रावण
निर्गन्तुं त्वमशक्नुवन् गिरितलात् कृत्वापि यत्नं महत् ।
यातस्त्वं शरणं पिनाकिनमसौ कारुण्यवारान्निधि-
र्बद्धं त्वां विमुमोच रावण ततो भक्त: शिवस्याभव: ।।४२।।
(Jan 14, 2017)
त्वं सद्धर्मविदारणो रघुपति: सद्धर्मकल्पद्रुम-
स्त्वं भक्तोऽपि शिवस्य तस्य वसतेरुत्पाटने यत्नवान् ।
पापं ते गणनात् परं भुवि महान् भारोऽसि रे दु:खद
त्वां सम्प्रेष्य यमालयं रघुपति: कुर्याज्जगन्नन्दितम् ।।४३।।
(Jan 14, 2017)
Madhav Deshpande
Ann Arbor, Michigan, USA