Ravana says to Sita:

मा मा मा वद कैतवं जनकजे भक्तो भवानीपते:

शैवं तद्धनुराकलय्य पतितो भूमौ प्रणन्तुं तदा ।

रामस्त्वात्मबलोद्धतो धनुरिदं गर्वेण यो भक्तवान् 

भक्त: स्यात् स कथं शिवस्य कुनरो नायं कथञ्चित् पर: ।।२४।।


सोऽयं वीरवरो जघान वनितामेकाकिनीं ताडकाम् 

सोऽयं वीरवरो मदीयभगिनीनासां छलेनाच्छिनत् ।

सोऽयं वीरवर: स्वरक्षणविधौ धत्ते वने वानरान् 

सोऽयं मद्भुजपञ्जरे निपततु, प्राणान् स्वयं त्यक्ष्यति ।।२५।।


Sita responds to Ravana:


रे रे रावण राक्षसाधम तव भ्राता गतो राघवम् 

युद्धं चेत् कुरुषे गमिष्यति कुलं सर्वं यमस्यालयम् ।

स्थित्वा मे पुरतोऽपभाषणपरस्त्वं निस्त्रप: प्रत्यहम् 

ते जिह्वादशकं शरै: रघुवरो नि:संशयं छेत्स्यति ।।२६।।


साध्वीं धर्मपरां विहाय कुलजां भार्यां च मन्दोदरीम् 

कस्मान्मामपहृत्य रावण कृतोऽधर्मस्त्वया दुस्तर: ।

नो चेत् त्वं तव पातकोपशमनं कर्तुं क्षमां याचसे

रामस्त्वां शरपञ्जरे निपतितं मोक्षं स्वयं दास्यति ।।२७।।

Madhav Deshpande

Ann Arbor, Michigan, USA