Woke up at 5am thinking about what Sita's response to Ravana was going to be.  Here it is:

रामस्ते दशकण्ठ कुण्ठितमते कण्ठान् समुत्कण्ठते

छेत्तुं ये गरलं गिरन्त्यविरलं लङ्काविनाशोत्कटम् ।

नो चेद्राक्षस मां जहासि, शरणं नायासि चेद्राघवम्

सर्वं ते विलयं गमिष्यति रणज्वालावलीढं कुलम् ।।१८।।


रे रे रावण मन्यसे यदि हितं लङ्कापुरीवासिनाम् 

बन्धूनां यदि जीवितं न समरे व्यर्थं विहातुं मति: ।

मा युध्यस्व रणे रघो: कुलमणि: सङ्ग्रामकण्ठीरव:

वात्सल्यं शरणागतेषु वितरन् मोक्षं स ते दास्यति ।।१९।।


विंशत्यापि विलोचनै: सहकृतो द्रष्टुं न शक्नोषि रे

सर्वस्वप्रलयङ्करीं निजमतिं सद्वृत्तविच्छेदिनीम् ।

नेत्रै: पश्यसि रामरूपमिह यन्मायावृतै रावण

तत्ते चेतसि सम्भ्रमं प्रकुरुते, रामोऽयमीश: स्वयम् ।।


रे रे विंशतिलोचन त्रिनयने भक्तिर्दृढा ते शिवे

जानीषे न तु कं विचिन्तयति सद्भक्त्या भवानीपति: ।

रामो मे भजते शिवं स भजते रामं न वैरं तयो-

रित्याकर्ण्य भजस्व रामचरणौ भूयात् शुभं तेऽसुर ।।


Madhav Deshpande

Ann Arbor, Michigan, USA