Rāvaṇa's continued response to Sītā:

[I wrote these verses this morning sitting in my doctor's waiting room.]

यो राम: सहलक्ष्मणोऽपि न निजां भार्यां क्षमो रक्षितुम् 

यो मायां मृगराक्षसस्य सुचिरं दृष्ट्वापि न ज्ञातवान् ।

सीता कुत्र गतेति यो वनचरान् वृक्षान् कपीन् पृष्टवान् 

सोऽयं नास्ति नरोऽवर: कथमहो मत्त: परो भाति मे ।।


राज्यं यस्य गतं कुमातृवचनान्निष्कासित: स्वात्पुरात् 

यो निष्काञ्चनतां गतो जटी वनचरो शुष्कं तृणं खादति ।

यो वृक्षान्तरितो जघान बलिनं कुच्छद्मना वालिनम् 

रामोऽसौ न कदापि मत्परतरो जानीहि तज्जानकि ।।


राज्यं तद् गतमेव मातृवचनाद् भ्रातानयत्पादुके

भार्यामप्यहरद्वनात् स्वकुटजात् कश्चित्तपस्वीजन: ।

नास्यास्त्यद्य घट: पटो न च कुटी नास्त्यस्य चित्तं स्थिरम् 

कामं जानकि तस्य मत्परमतां नि:शङ्कमावेदय ।।


यस्त्वां रक्षितुमक्षम: कथमसौ स्यात् क्षत्रियाणां वर:

स्वत्राणेऽप्यसमर्थतास्य विदिता यं स्वानुजो रक्षति ।

को भर्ता बदरै: स्वकुक्षिभरणं कुर्यात् शबर्या वने

चित्रं वाञ्छसि तं नरं जनकजे कस्मात् तदाख्याहि मे ।।


Madhav Deshpande

Ann Arbor, Michigan, USA