Sīta says to Rāvaṇa:

त्वं जानासि न सत्स्वरूपमिह रे रामस्य लङ्केश्वर

रामो याति न पञ्चतामपि तु सा तस्मात् समुज्जायते ।

रामोऽसौ परम: पुमानिति मया प्रोक्तं न विज्ञातवान् 

अज्ञो ज्ञास्यसि रे कथं सुररिपो श्रुत्वापि सत्यं परम् ।।

Rāvaṇa responds:

मा वोचो वचनं विमोहजनकं वैदेहि जानामि ते

वाक्चातुर्यमत: परं कथय मा रामस्य मेऽसत्कथाम् ।

लङ्का स्वर्णमयी ममाहमधुना सर्वेश्वर: शक्तिमान् 

को मन्येत परं नरं लघुवरं लङ्केश्वरादुत्तमम् ।।

Madhav Deshpande

Ann Arbor, Michigan, USA