रामस्ते जटिलोऽपटैरटति सोऽटव्यां समं मर्कटै:
कामं रोहतु वृक्षकान् स कपिभिर्मूलानि वा खादतु ।
सोऽयं योद्धुमिहागत: सह मया बाणैर्मदीयै: क्षत:
क्षिप्रं गच्छतु पञ्चतां, सुमुखि ते दु:खं न कुर्यात् पुन: ।।
Madhav Deshpande
Ann Arbor, Michigan, USA